नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितम् ।
स्नानं जान्हविवारिणा गणपते पीतांबरं गृह्यताम् ।
कंठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुंडले ।
नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ १ ॥
भाले चर्चितकेशरं मृगमदामोदांकितं चंदनम् ।
नानावृक्षसमुद्गतं सुकुसुमं मंदारदुर्वाशमीः ।
गुग्गूल्लोद्धवधूपकं विरचितं दीपं त्वदग्रे स्थितम् ।
स्वीकृत ते गणेश भक्ष्यं जंबूफलं दक्षिणाम् ॥ २ ॥
साष्टांगं प्रणतोऽस्मि ते मम कृता पूजा गृहाण प्रभो ।
मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिंगने ।
स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादांबुजे ।
प्रसीद मम पूजने गणपते मम वांच्छा तव दर्शने ॥ ३ ॥
माता गणेशश्र्च पिता गणेशो ।
भ्राता गणेशश्र्च सखा गणेशः ।
विद्यागणेशो द्रविणं गणेशः ।
स्वामी गणेशः शरणं गणेशः ॥ ४ ॥
इतो गणेशः परतो गणेशः ।
यतो यतो यामि ततो गणेशः ।
गणेशदेवादपरं न किंचित् ।
तस्मात् गणेशं शरणं प्रपद्ये ॥ ५ ॥
इति श्रीगणेश मानसपूजा संपूर्णं ॥

One thought on “श्रीगणेश मानसपूजा”

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.